वसुभूतिः—देवि, स्थाने देवीशब्दमुद्वहसि।
भीमः— क्वासौ धार्तराष्ट्रसखः पुण्यजनापसदो येनार्यस्य महान् अयं चित्तविभ्रमः कृतः?
कृष्णः— निगृहीतः स दुरात्मा नकुलेन, इति।
पुनर्वाक्यं तु विज्ञेयं यथोक्तक्षेपदर्शनम्॥ ३०७॥
बाभ्रव्यः—देवि, इदानीं सफलपरिश्रमोऽस्मि संवृत्त इति।