बीजबिन्दुपताकाप्रकरीकार्योपकल्पनमित्यनेन पञ्चानामर्थपुकृतीनां प्रयोगे संपूर्णम्।
प्रबन्धशरीरमध्य एवैकद्वित्रिलोपे त्वपरिपूर्णमिति उपवर्णयति। तत्र
अल्यमात्रमुपक्षिप्तं बहुधा यद् विसर्पति।
फलावसानं यच्च स्यात् तद् बीजमिह कीर्तितम्॥
धूर्तैर्यच्छ्वपचीकृतो वररुचिः सर्वज्ञकल्पोऽपि सञ् जीवन्नेव पिशाचतां च गमितो भत्स्युर्यदभ्यर्च्यधीः।
छन्दोगोऽयमिति प्रभाकरगुरुर्देशाच्च निर्वासितो मद्वृत्तान्तविजृम्भितेन महता तत् सर्वमल्पीकृतम्॥ ३८१॥
प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।
यावत्समाप्ति सम्बन्धः स बिन्दुरिति कीर्तितः॥ ३८२॥