भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1401 to 1410 of 2002 verses
(नाशा. १९.९८)

यथा रत्‍नावल्यां

राजा—तथपीदमस्तु—(रत्‍ना. ४.२२)

उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टा— मिष्टैस्त्रविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः।

आकल्पान्तं कृषीष्ट क्रमसमुपचितं सङ्गतं सज्जनानां निर्विश्लेषावकाशं पिशुनजनवचोवर्जनावज्रलेपाः(?)॥ ३१३॥

यथा (च) वेणीसंहारे

युधिष्ठिरः—प्रीतश्चेद्भगवांस्तदिदमस्तु—(वेसं. ६.४६)

अकृपणमरुक् कान्तं जीव्याज्जनः पुरुषायुषं भवतु भगवन् भक्तिर्द्वैधं विना पुरुषोत्तमे।

कलितभुवनो विद्वद्‍बन्धुर्गुणेषु विशेषवित् सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः॥ ३१४॥

(४. चतुर्थी चतुष्षष्टिः)

Showing 1401 to 1410 of 2002 verses