राजा—तथपीदमस्तु—(रत्ना. ४.२२)
उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टा— मिष्टैस्त्रविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः।
आकल्पान्तं कृषीष्ट क्रमसमुपचितं सङ्गतं सज्जनानां निर्विश्लेषावकाशं पिशुनजनवचोवर्जनावज्रलेपाः(?)॥ ३१३॥
युधिष्ठिरः—प्रीतश्चेद्भगवांस्तदिदमस्तु—(वेसं. ६.४६)
अकृपणमरुक् कान्तं जीव्याज्जनः पुरुषायुषं भवतु भगवन् भक्तिर्द्वैधं विना पुरुषोत्तमे।
कलितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवित् सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः॥ ३१४॥