निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये।
यदुच्यते तु वचनं निरुक्तं तदुदाहृतम्॥ ३४१॥ (नाशा.१६.१६अ)
प्रियंवदा—हला सउंदले, इध एव्व दाव मुहुत्तअं चिट्ठ। तुए समीपट्ठिदाए ळदासणाहो विअ अअं केसररुक्खओ पडिभाइ। (सखि शकुन्तले, अत्रैव तावन्मुहूर्तकं तिष्ठ। त्वया समीपस्थितया लतासनाथ इव अयं केसरवृक्षः प्रतिभाति।)
शकुन्तला—अदा खु सि पिअंवदा। (अतः खल्वसि प्रियंवदा।)
राजा—प्रियमपि तथ्यमाह सा ॥ ३४२॥
अधरः किसलयरागः कोमलविटपानुकारिणै बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्॥ ३४३॥