प्राणानामनिलेन वृत्तिरुचिता सङ्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यद् वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥ ३४७॥
गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः।
गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ॥ ३४८॥
लवः राममुद्दिश्य (उराच. ५.३४)