वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यकुण्ठयशसो लोके महान्तो हि ते।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः॥ ३४९॥
बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान्।
विशेषः कीर्त्यते यस्तु ज्ञेयस्सोऽतिशयो बुधैः॥ ३५०॥
यथा रत्नावल्यां द्वितीयेऽङ्के
राजा चित्रलिखितां सागरिकां दृष्ट्वाऽऽह—
विधायापूर्वपूर्णेन्दुमस्या मुखमभूद् ध्रुवम्।
धाता निजासनाम्भोजविनिमीलनदुस्स्थितः॥ ३५१॥