बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः।
उच्चयस्सदृशार्थो यस्स विज्ञेयः पदोच्चयः॥ ३५४॥
यथा रत्नावल्यां प्रथमेऽङ्के
राजा वासवदत्तां प्रत्याह—(रत्ना.१.१९)
कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम्।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव॥ ३५५॥
(१८. दिष्टं वर्णकः) (नाशा. १६.२३अ)
यथादेशं यथाकालं यथापात्रं च वर्ण्यते।
यत्प्रत्यक्षं परोक्षं वा दिष्टं तद्वर्णकोऽपि वा॥ ३५६॥