पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः ।
अनेकोपायसंयुक्तो विचारः परिकीर्तितः॥ ३६०॥
यथा उत्तरचरिते लवचन्द्रकेतू परस्परं सस्नेहानुरागं निर्वर्ण्य,
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा सम्बन्धः किमु विधिवशात् कोप्यविदितो ममैतस्मिन् दृष्टे हृदयमवधानं रचयति॥ ३६१॥
(२१. विपर्ययः) (नाशा. १६.२६ अ)
विचारस्यान्यथाभावस्तथा दिष्टोपगिष्टयोः।
सन्देहाज्जायते यत्र स विज्ञेयो विपर्ययः॥ ३६२॥
यथा रत्नावल्यां तृतीयेऽङ्के,