राजा—(उपसृत्य, कण्ठात् पाशमपनयन्) अयि, किमिदमकार्यं क्रियते ?॥ ३६३॥
मम कण्ठगताः प्राणाः पाशे कण्ठगते तव।
अनर्थार्थप्रयासोऽयं त्यज्यतां साहसं प्रिये॥ ३६४॥
(२२. भ्रंश) (नाशा. १६.२७ अ)
वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा।
अन्यस्मिन्नेव पतनादाशु भ्रंशस्स उच्यते॥ ३६५॥
यथा— वेणीसंहारे द्वितीयेऽङ्के, दुर्योधनः—(वेसं. २.५)
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम्।
सबलेन निहन्ति संयुगे नचिरात् पाण्डुसुतस्सुयोधनम्॥ ३६६॥