वासवदत्ता—हळा कंचणमाले, सच्चं एव्व मम वेसं करिअ साअरिआ अय्यउत्तं अहिसारइस्सिदि। (हला काञ्चनमाले ! सत्यमेव मम वेषं कृत्वा सागरिका आर्यपुत्रं अभिसरिष्यति।)
काञ्चनमाला—कधं अण्णथा भट्टिणीए णिवेदिआणि। अहवा चित्तसालादुवारम्मि उवविट्टो वसंतओ एव्व दे पच्चअं उप्पादइस्सदि। कथमन्यथा भट्टिन्यै निवेदयानि ? अथवा चित्रशालाद्वारे उपविष्टो वसन्तक एव ते प्रत्ययमुत्पादयिष्यति।
(ततः प्रविशति कृतावकुण्ठनो वसन्तकः।)
वसन्तकः—(कर्णं दत्त्वा) जहा चित्तसालाआ दुवारे पअसद्दो विअ सुणीअदि तहा तक्केमि आअदा साअरिआ त्ति। (यथा चित्रशालाया द्वारे पदशब्द इव श्रूयते तथा तर्कयाम्यागता सागरिकेति।)
काञ्चनमाला—भट्टिणी, एअं चित्तशालिआदुवारं। ता जाव वसंतअस्स सण्णं करेमि। (भट्टिनि एतत् चित्रशालिकाद्वारम्। तद्यावद्वसन्तकस्य संज्ञां करोमि।) (इति छोटिकां ददाति।)
विदूषकः—(उपसृत्य, अपवार्य), सुसङ्गदे ! सुसरिसो खु दे किदो कंचणमालाए वेसो साअरिआ एव्व वासवदत्ते त्ति। (सुसदृशः खलु त्वया कृतः काञ्चनमालाया वेषः सागरिका एव वासवदत्तेति।)
विदूषकः—(ससम्भ्रमं, दृष्ट्वा) भो वअस्स, परित्ताअहि। एसा खु देवी वासवदत्ता। अत्ताणं उब्बद्धीअ विवज्जइ। (भो वयस्य, परित्रायस्व। एषा खलु देवी वासवदत्ता आत्मानमुद्वध्य व्यापादयति।)
राजा—(ससम्भ्रममुपसृत्य) वयस्य, क्वासौ ?
विदूषकः—भो एसा। (भो एषा।)