अङ्के न्यस्योत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुः कृत्वोत्सङ्गे सलीलं त्वयि/चि कनकमृगस्याङ्गशेषं निधाय।
बाणं रक्षःकुलघ्नं प्रगुणितमनुजेनादरात् तीक्ष्णमक्ष्णः कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते॥ ३५७॥
(१९. उपदिष्टम्) (नाशा. १६.२४अ)
परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते।
विद्वन्मनोहरं स्वन्तमुपदिष्टं प्रकीर्त्यते॥ ३५८॥
यथा अभिज्ञानशाकुन्तले—(शाकु. ४.१८)
शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ ३५९॥
(२०. विचारः) (नाशा. १६.२५अ)