कञ्चुकी—(कर्णौ पिधाय) शान्तं पापं शान्तं पापम् !
राजा—कञ्चुकिन् ! किं वा मयोक्तम् ?
कञ्चुकी—(दुर्योधनोक्तं पठित्वा) तदेतद्विपरीतमभिहितं देवेन।
राजा—कञ्चुकिन्, प्रातर्मामनाभाष्यैव भानुमती व्याक्षिप्तं मे चेत इति।
(२३. अनुनयः) (नाशा. १६.२८अ)
उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः।
अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः॥ ३६७॥
यथा रत्नावल्यां तृतीयोऽङ्के
राजा सागरिकावृत्तान्तापराधे वासवदत्तायाः पुरो बद्धाञ्जलिस्तामनुनयन्नाह— प्रिये वासवदत्ते देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि ?
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना।