कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदिपरं करुणा मयि स्यात्॥ ३६८॥
अभिप्रेतार्थसिद्धयर्थं कीर्त्यते यत्र सूरिभिः।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता॥ ३६९॥ (नाशा. १६.२९अ)
मकरन्दो मालतीमुद्दिश्य कामन्दकीं प्रति—भगवती,
श्लाघ्यान्वयेति नयनोत्सवकारिणीति निर्व्यूढसौहृदगुणेति गुणोज्ज्वलेति।
एकैकमेव हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि॥ ३७०॥