विदूषकः— भोदि पसीएउ। (भवति, प्रसीद।)
वासवदत्ता— सहापेहि सच्चं एव्व मे सीसवेअणा समुप्पण्णा। ता गमिस्सं। {सम्भावय सत्यमेव मे शीर्षवेदना समुत्पन्ना। तद्गमिष्ये।} (इति निष्क्रान्ता सपरिवारा वासवदत्ता।)
विदूषकः—भो दिठ्ठिआ वढ्ढसि, (भोः, दिष्ट्या वर्धसे।)
राजा— मूर्ख, अलं परिहासेन। आभिजात्याद् विनिगूढो न लक्षितस्त्वया कोपो देव्याः॥ ३७३॥
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥
यत्र सङ्कीर्तयेद् दोषं गुणमर्थेन दर्शयेत्।
गुणातिपाताद् दोषाद्न वा गर्हणं नाम तद्भवेत॥ ३७५॥