चन्द्रकेतुः सैनिकैरभियुज्यमानं लवमुद्दिश्य, भो भो राजानः !
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता— वत्रैकस्मिन् कवचनिबिडैर्नद्धचर्मोत्तरीये।
कालज्येष्ठैरपरवयसि कीर्त्तिकामैर्भवद्भि— र्योऽयं बद्धो युधि समभरस्तेन धिग् वो धिगस्मान्॥ ३७६॥
अर्थान्तररस्य कथने यत्रान्योऽर्थः प्रतीयते।
वाक्यमाधुर्यसम्पन्ना साऽर्थापत्तिरुदाहृता॥ ३७७॥