कुम्भकर्णो रावणमुद्दिश्य—
रामोऽसौ जगतीह विक्रमगुणैर्यातः प्रसिद्धिं पराम् अस्मद्भाग्यविपर्ययाद् यदिपरं देवो न जानाति तम्।
बन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति— श्रेणीभूतविशालसालविवरोद्गीर्णैस्स्वरैस्सप्तभिः॥ ३७८॥
(२८. प्रसिद्धिः) (नाशा. १६.३३)
वाक्यैस्सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता॥ ३७९॥
यथा महावीरचरिते रामः परशुराममुद्दिश्याह—(मवीच. २.३६)
उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः वीर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः।
त्यागस्सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधि— र्ब्रह्मक्षत्रतपोनिधेर्भगवतः किं वा न लोकोत्तरम्॥ ३८०॥