यथा छलितरामे षष्ठेऽङ्के—हिरण्मयीं सीताप्रतिकृतिमवलोक्य
लवः—(सक्षोभसम्भ्रमं) कथमम्बा इहानीता ! जानीम ॰ ॰ ॰ ॰।
यथा (वेणीसंहारे) दुर्योधनेन (भीमार्जुनौ) हताविति चार्वाकादाकर्ण्य शोकाच्चिताप्रवेशं अभिलषति सद्रौपदीके युधिष्ठरे, (नेपथ्ये कलकलानन्तरं) भो भोः स्यमन्तपञ्चकसञ्चारिणः प्रवीरपुरुषाः कृतं कृतं वो मद्दर्शनत्रासेन। कथयन्तु भवन्तः,
ऊरू करेण परिघट्टयतस्सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या।
दुःशासनाग्रकरकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे॥ ३८४॥
कञ्चुकी—हा देवि यज्ञवेदिसंभवे, परिभूयसे संप्रत्यनेन दुरात्मना कुरुकुलकलङ्केन।
युधिष्ठिरः—(ससंभ्रममुत्थाय) देवि याज्ञसेनि, न भेतव्यं न भेतव्यम्। कः कोऽत्र भोः ! सनिषङ्गं मे धनुरुपानयत। दुरात्मन् दुर्योधनहतक ! आगच्छागच्छ। अयमपनयामि तो गदाकौशलसंभूतं भुजदर्पं शिलीमुखासारेण। पश्य रे मूढ !॥ ३८५॥
प्रियमनुजमपश्यंस्तं जरासन्धमल्लं कुपितहरकिरातद्वेषिणं तं च वत्सम्।