कञ्चुकी—देवि पाण्डुस्नुषे ! संयम्यन्तामिदानीं नयनपथरोधिनो दुःशासनाकृष्टा मूर्धजाः। अस्तमिता संप्रति प्रतीकाराशा।
युधिष्ठिरः—न खल्वनिहते अस्मिन् दुरात्मनि दुर्योधनहतके संहर्तव्यः केशहस्तः।
भीमः— पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना। तिष्ठ तिष्ठ। स्वयमेवाहं संहरामि। (केशेषु ग्रहीतुमिच्छति।)
युधिष्ठिरः—(भीममालिङ्ग्य) दुरात्मन् भीमार्जुनशत्रो, दुर्योधनहतक !॥ ३८८॥
आशैशवादनुदिनं जनितापराधो क्षीबो मदेन भुजयोर्हतराजपुत्रः।
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन् प्रयासि न पदात् पदमद्य मूढ !॥
भीमः—कथमार्यः सुयोधनशङ्क्या क्रोधान्निर्दयं मामालिङ्गति ?
कञ्चुकी—(उपगम्य सहर्षं) महाराज, दिष्ट्या वर्धसे। अयं खल्वायुष्मान् कुमारभीमसेनः सुयोधनक्षतजारूणीकृतसकलशरीरतया दुर्लक्षव्यक्तिः। तदलमधुना संरम्भेण, इति ॥ ३९०॥