हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रकाशकम्।
अन्यापदेशकथनं मनोरथ इति स्मृतः॥ ३९१॥
यथा रत्नावल्यां द्वितीयेऽङ्के
सुसङ्गता—सहि जस्स किदे तुमं आअदा अअं सो जिठ्ठदि। (सखि, यस्य कृते त्वमागता, अयं स तिष्ठति।)
सागरिका—(सासूयं) सहि कस्स किदे अहं आअदा ? (सखि, कस्य कृतेऽहमागता ?)
सुसङ्गता—अइ अण्णसंकिदे, णं चित्तफलअस्स।
(अयि अन्यशङ्किते, ननु चित्रफलकस्य।) ॥ ३९२॥
यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते।