सादृश्यार्थाभिनिष्पत्त्या स लेश इति कीर्तितः॥ ३९३॥
सख्यौ—(शकुन्तलादुष्यन्तयोराकारं विदित्वा जनान्तिकं) हळा सउंदळे, जइ अज्ज तादो सण्णिहिदो भवे। (सखि शकुन्तले, यद्यद्य तातस्सन्निहितो भवेत्—)
शकुन्तला—(सरोषं) तदो किं भवे। (ततः किं भवेत् ?)
सख्यौ—तदा इमं जीवितसव्वस्सेण वि अदिहिं किदत्थं करेइ। (तदा इमं जीवितसर्वस्वेनाप्यतिथिं कृतार्थं करिष्यति।)
शकुन्तला—अपेथ। किं वि हिअए करिअ मंतेथ। ण वो वउणं सुणिस्सं। (अपेत। किमपि हृदये कृत्वा मन्त्रयेथे। न वां वचनं श्रोष्यामि।) ॥ ३९४॥
(३३. क्षोभः) (नाशा. १६.३८ अ)
परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते।
अदुष्टोऽन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः॥ ३९५॥