भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1741 to 1750 of 2002 verses
दृष्टिं रुषा क्षिपसि यद्यपि भामिनीमां स्‍निग्धेयमेष्यति तथापि न रूक्षभावम्।

त्यक्त्वा त्वरां व्रज तव स्खलितैरयं तु खेदं करिष्यति गुरुर्नियतं नितम्बः॥ ३९८॥

(३५. आख्यानम्)

पृष्टैरपृष्टैरथवा निर्णयः (क्रियते तु यः)।

तदाख्यानमिति ज्ञेयं लक्षणं नाटकाश्रयम्॥ ३९९॥

(नाशा. १६.२१उ)

यथा उत्तरचरिते, चतुर्थेऽङ्के,

कौसल्या—अम्महे एदाणं मज्झे को एस रामभद्दकोमारलिहि (लच्‍ची)सावठ्ठंभेहिं मुद्धळळिदेहिं अंङ्गकेहिं दारओ अम्हाण (ख) लोअणाइं सीलळावेइ।

(अहो एतेषां मध्ये क एषः रामभद्रकौमारलक्ष्मीसावष्टम्भै— र्मुग्धललितैरङ्गकैर्दारकोऽस्माकं लोचने शीतलयति ?)

अरुन्धती—(अपवार्य, सहर्षोत्कण्ठम् इदं नाम तद्भागीरथीनिवेदितं रहस्यकर्णामृतम्। न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति।) ॥ ४००॥

Showing 1741 to 1750 of 2002 verses