भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1761 to 1770 of 2002 verses
यथा महा वीरचरिते—(मवीच. १.३०)

कन्यारत्‍नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्‍नं यत् क्‍वचिदस्ति तत् परिणमत्यस्मासु शक्रदपि।

कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ ४०४॥

(३८. प्रोत्साहनम्)

उत्साहजननैस्सष्टैर्गुणैरौपम्यसंश्रयैः।

प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः॥ ४०५॥

(नाशा. १६.१०उ)

यथा रत्‍नावल्यां चतुर्थेऽङ्के विजयवर्मा प्राग्वृत्तयुद्धवर्णनायां प्राह—

योद्ध‍ुं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान् विन्ध्येनेवापरेण द्विपपतिपृतनापीठबन्धेन रुन्धन्।

वेगाद् बाणान् विमुञ्चन् समदकरिघटोत्पिष्टपत्तिर्निपत्य प्रत्यैच्छद् वाञ्छिताप्‍तिद्विगुणितरभसस्तं रुमण्वान् क्षणेन॥

Showing 1761 to 1770 of 2002 verses