(३६. अभिमानः) (नाशा. १६.८उ)
वा/धार्यमाणाः सुबहुभिर्वचनैः कार्ययुक्तिभिः।
नार्यो यन्नानुतिष्ठन्ति/नयः पर्यवतिष्ठेत सोऽभिमानः प्रकीर्तितः॥ ४०१॥
यथा रत्नावल्यां, तृतीयेङ्के,
काञ्चनमाला—भट्टिणी करेहि से पसादं। एअं चरणपडिअं उज्झिअ गदाए वअस्सं अवस्सं पच्चादावेन होदव्वं। (भट्टिनी ! कुरुष्व अस्मै प्रसादम् एवं चरणपतितमुज्झित्वा गताया अवश्यं पश्चात्तापेन भवितव्यम्।)
वासवदत्ता—अइ अपेहि। को पच्चादावसरो इति। (अयि, अपेहि। कः पश्चात्तापावसर इति।)॥ ४०२॥
लाभोपपत्तिमाख्याय स्वयं दूतमुखेन वा।
प्रार्थ्यते यत्र कन्यादिस्सा याञ्चेत्यभिधीयते॥ ४०३॥