(३९. स्पृहा) (समा नाशा. १६.८ टि.)
दृष्टे श्रुतेऽनुभूते वा वस्तुनो रामणीयके।
अभिलाषो भवेद् यस्तु सा स्पृहेति प्रकीर्तिता॥ ४०७॥
यथोत्तरचरिते जनकः—(उ.रा.च. ४.१९)
कुवलयदलस्निग्धश्यामश्शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन्।
पुनरिव शिशुर्भूत्वा वत्सस्स मे रघुनन्दनो झटिति कुरुते दृष्टः सोऽयं दृशोरमृताञ्जनम्॥ ४०८॥
अकार्यं सहसा कृत्वा(ऽ)कृत्वा कार्यमथापि वा।
सन्तापो मनसो यस्तु पश्चात्तापस्स उच्यते॥ ४०९॥