राजा—न खलु किञ्चिन्न संभाव्यत इति॥ ४११॥
(४२. युक्तिः) (नाशा. १६.३६)
साध्यते योऽर्थसम्बन्धो महद्भिस्समवायतः।
परस्परानुकूल्येन सा युक्तिः परिकीर्तिता॥ ४१२॥
कामन्दकी—तदिदानीं विदर्भराजमन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षकीश्रवाणाय कुण्डिनपुराद् इमां पद्मावतीं प्रति प्रेषयता सुविहितम्।
अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च॥
अन्यच्च, मकरन्दोद्यानवृत्तान्तेन भगवतो विधेरप्यनुकूलतामवगच्छामि। वकुला— वलीचित्रफळकसंविधानव्यतिकरश्च कमप्यद्भुतं प्रमोदमुल्लासयति, इति।