प्रतिक्रियासमर्थस्य पात्रौचित्यवशेन यः।
अपकारेऽप्युपशमः सा क्षमेति प्रकीर्तिता॥ ४१६॥१ (नाशा. १६.३१)
१.–२. भोजोपज्ञमिदं द्वयम्।
लवः—(आत्मगतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः। मया पुनरेभ्य एवाभिद्रुग्धमज्ञेन, यदायुधपरिग्रहो विहितः (प्रकाशम्) मृष्यन्तामिदानीं लवस्य बालिशतां तातपादाः।
चन्द्रकेतुः—अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन।
रामः—नन्वयमलङ्कारः क्षत्रस्य। इति॥ ४१७॥
(४५. गुणानुवादः) (नाशा. १६.१३अ)
गुणानुवादः स ज्ञेयो यत्राऽभेदोपचारतः।