गौणीं वृत्तिमुपाश्रित्य वस्तुनो रूपमुच्यते॥ ४१८॥२
यथा शाकुन्तले राजा—(शाकु. २.१०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ४१९॥
आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः।
तीव्रार्थभाषणं यत् स्यादाक्रन्दस्स तु कीर्तितः॥ ४२०॥
(प्रविश्य) बुद्धरक्षिता—परित्ताअध परित्ताअध। एसा खु णो पिअसही अमच्चणंदणस्स भइणीआ मदअंतिआ एदिणा दुठ्ठशद्दूलेण भयविद्दविअपरिअणा अब्भिद्दवीयदि। (परित्रायध्वं, परित्रायध्वम्! एषा खलु नः प्रियसख्यमात्यनन्दनस्य भगिनिका मदयन्तिका एतेन दुष्टशार्दूलेन भयविद्रावितपरिजना अभिद्रूयते।)॥ ४२१॥