(४७. कपटम्) (नाशा. १६.३०)
अदिव्यं दिव्यमपि वा कृत्वा रूपविपर्ययम्।
अविद्वान् वञ्च्यते यत्र कपटं तदुदाहृतम्॥ ४२२॥१
कामन्दकी—वत्स मकरन्द, अनेनैव मालतीनैपथ्येनापवारितः प्रवर्तस्व परिणयायात्मानं नन्दनेन। इति।
यद् दोषैरन्यनामोक्तैः प्रसिद्धार्थप्रयोजनम्।
अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिवादनम्॥ ४२३॥ (नाशा. १६.३९)
यथा रत्नावल्यां तृतीयेऽङ्के,