भाषते— अज्ज वि दाव से णिच्चरुट्ठाए देवीए वअणेहिं कडुईकदा कण्णा तुहालापेहि सुहाविअन्तु। (अद्यापि तावद् अस्या नित्यरुष्टाया देव्या वचनैः कटुकीकृताः कर्णाः तवालापैः सुख्यन्तु।) ततो ज्ञातायां राजा परिवदन्नाह—धिङ् मूर्ख! त्वत्कृतोऽयमनर्थोऽ— स्माकमापतितः, इति ॥ ४२४॥
(४९. अभ्युपपत्तिः) (नाशा. १६.३५)
प्राप्ता(प्रोक्ता)नां यत्र दोषाणां क्रियते शमनं पुनः।
ज्ञेया साऽभ्युपपत्तिस्तु लक्षणं नाटकाश्रयम्॥ ४२५॥
यथा रत्नावल्यां द्वितीयेऽङ्के;
वासवदत्ता—कंचणमाले! अअं अय्यउतो। इअं उण साअरिआ। ता किं एदं ?। (काञ्चनमाले, अयमार्यपुत्रः। इयं सागरिका। तत् किमेतत्?)
काञ्चनमाला—अहं पि एव्वमेव्व तक्केमि। (अहमपि एवमेव तर्कयामि।)
(राजा)— (अपवार्य), वयस्य त्वमेवास्या उत्तरं प्रयच्छ।