विदूषकः — होदि, अप्प किल दुक्करं आलिहिदुं ति मम वअणं सुणिअ पिअवअस्सएण एदं विण्णाणं दंसिदम्। (भवति, आत्मा किल दुष्करं आलिखितुमिति मम वचनं श्रुत्वा प्रियवयस्येनैतद् विज्ञानं दर्शितम्।)
राजा— देवि, यथाह वसन्तकः।
वासवदत्ता—एसा पि जा तुह समीपे आलिहिदा, एदं किं वसंदअस्स विण्णाणं। (एषापि) या तव समीपे आलिखिता, एतत् किं वसन्तकस्य विज्ञानम् ?
राजा—(सविलक्षस्मितः) देवि, अलमन्यथा सम्भावितेन। इयं हि मया स्वचेतसैव विकल्प्यालिखिता। न तु दृष्टपूर्वा। इति ॥ ४२६॥
यत्रा(/?/ा)सङ्कीर्तयन् दोषं गुणमर्थेन योजयेत्।
गुणाभिवादं दोषाद् वा कार्यं तदिह कीर्तितम्॥ ४२७॥
यथा वा रत्नावल्यां प्रथमेऽङ्के यौगन्धरायणः—(१.७)
प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे।