निवर्तते वृथा क्लेशस्स विज्ञेयो मृषोद्यमः॥ ४३१॥१
१–२. भोजोपज्ञमिदं द्वयम्।
यथा वीरचरिते—(मवीच. ३.२४)
तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वो स दर्पादुद्दामं द्विषमसहमानः स्खलयतु।
अरामां निस्सीरध्वजदशरथीकृत्य वसुधा— मृतप्तस्तत्कुल्यानपि परशुरामश्शमयति॥ ४३२॥
काक्वा श्लेषेण वा यत्र पदं द्वयर्थे प्रयुज्यते।
प्रधानमतिसन्धातुं सा छलोक्तिः प्रकीर्तिता॥ ४३३॥२
विदूषकः—होदि, सबामि बह्मसुत्तेण जइ अह्मेहिं ईदिसी कापि दिठ्ठपुव्वा। (भवति! शपामि ब्रह्मसूत्रेण, यदि . . . अस्माभिरीदृशी कापि दृष्टपूर्वा।)