काञ्चनमाला—भट्टिणि! घुणक्खदं वि संवददि एव्व। (भट्टिनी! घुणाक्षरमपि संवदत्येव।)
वासवदत्ता— अइ उजुए, वसंदओ खु एसो। ण आणासि तुमं एदस्स वक्कभणिदिओ। अय्य मम वि एदं चित्तअं पेक्खंतीए सीसवेअणा समुप्पण्णा। ता गमिस्सं अहं, इति। (अयि ऋजुके, वसन्तकः खल्वेषः। न जानासि त्वं एतस्य वक्रभणितीः। आर्य! ममापि एतच्चित्रकं प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना तद्गमिष्याम्यहम्, इति।)
यथा च मालतीमाधवे प्रभवति निजस्य कन्यकाजनस्य महाराजः, इति।
वाक्येऽभिधीयमानोऽर्थो येनान्यत्वं प्रपद्यते।
भिन्नकण्ठध्वनिर्धीरैस्स काकुरिति कथ्यते॥ ४३४॥१
यथा च वेणीसंहारे, भीमः सहदेवमुद्दिश्य — सन्धेयास्ते भ्रातरो युष्माकम्। यथा चात्रैव
लाक्षागृहानलविषान्नसभाप्रवेशौः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ ४३५॥ (वेसं. १.७)