सीता—धण्णा खु सा जा अय्यवुत्तेण एव्वं बहुमण्णीअदि। जा अय्यवुत्तं विणोदअंती आसाणिबंधण जादा जीवळोअस्स। (धन्या खलु सा या आर्यपुत्रेणैवं बहुमन्यते। या आर्यपुत्रं विनोदयन्ती आशानिबन्धनं जाता जीवलोकस्य।)
तमसा— (सस्मितस्नेहास्त्रं परिष्वज्य) अयि वत्से, एवमात्मा स्तूयते।
सीता— (सलज्जम्) परिहसिदम्मि भअवदीए। (परिहसितास्मि भगवत्या।) (इति।)
सगुणोत्कर्षतो वापि कर्मणो वाऽपदानतः।
आत्मश्लाघापरं वाक्यं विकत्थनमिहोच्यते॥ ४३८॥३
१–३. भोजोपज्ञमिदं त्रितयम्।
सकलरिपु/?/जयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम्॥ ४३९॥ (वेसं. ५.२७)