त्वत्पाद/पाणिपङ्कजपरिग्रहपुण्य/ धन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृभांसपणनाय परेतभूमा— वाकर्ण्य भीरु! रुदितानि तवागतोऽस्मि॥ ४४२॥
प्रत्यक्षमिति यत्रैकः परोक्षमिति चापरः।
मन्यतेऽभिमतं वस्तु तद् वैषम्यमिति स्मृतम्॥ ४४३॥१
(वासन्ती)—कथमद्यापि नोच्छ्वसिति रामभद्रः? हा प्रियसखि सीते! विपत्तिदुःखदग्धामपि पुनःपुनर्मन्दभागिनीं दहसि।
सीता—अपसर्तुमिच्छामि। एष पुनश्चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्र— स्पर्शेन दीर्घदारुणमपि झटिति सन्तापं लघयता वज्रलेपोपनद्ध इव पर्यस्तव्यापार आसञ्जितो मे हस्तः॥ ४४४॥