भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1941 to 1950 of 2002 verses
परिकम्पिनः प्रकम्पी करो (कराद्) मम स्विद्यतस्स्विद्यन्॥ ४४७॥

(उराच. ३.४१)

तमसा—(सस्‍नेहकौतुकस्मितं निर्वर्ण्य) (उराचय. ३.४२)

सस्वेदरोमाञ्चितकम्पिताङ्गी जाती प्रियस्पर्शसुखेन वत्सा।

मरुन्नवाम्भःप्रविधूतसिक्त— कदम्बयष्टिस्सफुटकोरकेव॥ ४४८॥

सीता—(स्वगतम्) अवसेण एदेण अत्ताणएण लज्जाविदह्मि भअवदीए तमसाए। किं ति किल एसा तमसा एस मण्णिस्सिदि एसो परिचयो(च्चायो) एसो आसंहो त्ति। (अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति किलैषा तमसा मंस्यते एष परित्यागः, एष आसङ्ग इति।)

रामः—(सर्वमवलोक्य) हा कथं नास्त्येव। नन्वकरुणे वैदेहि! न मामेवं परित्यक्‍तुमर्हसि।

१.–२. भोजोपज्ञमिदं द्वयम्।

वासन्ती—देव! प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयात्मानम्। कुतोऽत्र मे प्रियसखी ?

रामः—व्यक्तं नास्ति। कथमन्यथा वासन्त्यपि न पश्येत् ? एष खलु स्वप्‍न एव स्यात्। न चास्मि प्रसुप्‍तः। कुतो रामस्य निद्रा? इति॥ ४४९॥

Showing 1941 to 1950 of 2002 verses