स्नेहाद् दाक्षिण्यतो वापि प्रवृत्तिस्सा निगद्यते॥ ४५३॥२
यथा मालतीमाधवे कामन्दकी—(मामा.४.५)
मा वां सपत्नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वापि शक्यम् विशंक्यम्।
तत् सर्वथा सङ्गमनाय यत्नः प्राणव्ययेनापि मया विधेयः॥ ४५४॥
(६२. आशीः) (नाशा. १६.२८ पाठभेदेन)
यदाशास्त्यर्थसम्पन्नं मनोरथसमुद्भवम्।
अप्रार्थनीयमन्यद् वा विदुस्तामाशिषं बुधाः॥ ४५५॥
यथा मालतीमाधवे कामन्दकी—(मामा. ६.७)
विधाता भद्रं नो वितरतु मनोज्ञाय विधये क्रियासुर्देवा (नः) परमरणीयां परिणतिम्।
कृतार्था भूयासं प्रियसुहृदि यत्नैरभिमतः प्रयासः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु॥ ४५६॥