भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1981 to 1990 of 2002 verses
राजा—उज्झितशब्देन पुनर्जनितं कुतूहलम्। आमूलाच्छ्रोतुमिच्छामि।

अनसूया—पुरा तस्स किल राएसिणो उग्गे तवसि वट्‌ठमाणस्स किं पि जादसंकेहिं देवेहिं मेणआ णाम अच्छरा णिअमविग्घकारिणी अणुप्पेसिदा। (पुरा तस्य किल राजर्षेः उग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैः मेनका नामाप्सरा नियमविघ्‍नकारिणी अनुप्रेषिता।)

राजा—अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्। ततस्ततः?

अनसूया—तदा वसन्तोदारसमए तए उन्मादयित्तअं रूवं पेक्खिअ . . . (ततो वसन्तोदारसमये तस्या उन्मादयितृकं रूपं प्रेक्ष्य) (इत्यर्धोक्ते लज्जां नाट्यति।)

राज—भवतु, परस्तादवगम्यत एव। सर्वथा अप्सरस्सम्भवैवैषा, इति॥ ४५८॥

(६४. प्रियवचनम्)

आदौ यत् क्रोधजननमन्ते हर्षविवर्धनम्।

तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम्॥ ४५९॥

(नाशा. १६.२९)

यथा रत्‍नावल्यां, चतुर्थेऽङ्के,