(६३. अनुक्तसिद्धिः) (नाशा. १६.४० पृ.३६१)
प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते।
वचनेन विनाऽनुक्तस्सिद्धिस्सा परिकीर्तिता॥ ४५७॥
राजा—भगवान् खलु काश्यपश्शाश्वते ब्रह्मणि स्थित इति प्रकाशः। इयं च वस्सखी तदात्मजेति कथमेतत्?
अनसूया—सुणादु अय्यो। अत्थि कोसिओ त्ति गोत्तनामदो महप्पहावो राएसी।
(श्रृणोत्वार्यः। अस्ति कौशिक इति गोत्रनामतो महाप्रभावो राजर्षिः।)
अनसूया—तं सहीए पहवं अवगच्छदु महाराओ। उज्झिदसरीरसंवढ्ढणादिहिं तादकस्सपो से पिदा। {तं सख्याः प्रभवमवगच्छतु महाराजः। उज्झितशरीरसंवर्धनादिभिः तातकाश्यपः अस्याः पिता।}