न साधयामि यद्येतदेवं कर्तास्म्यहं तदा।
इत्युद्धवादेर्वाक्यस्य तत् प्रतिज्ञानमुच्यते॥ ४५०॥१
ध्वस्ताः क्षुब्धा धार्तराष्ट्रास्समस्ताः पीतं रक्तं स्वादु दुश्शासनस्य।
पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येकः कौरवस्योरुभङ्गः॥
ऊरू निपीड्य गदया यदि नास्य तस्य पादेन रत्नमकुटं शकलीकरोमि।
देहं निपीतनिजधूमविजृम्भमाण— ज्वालाजटालवपुषि ज्वलने जुहोमि॥ ४५२॥
एवं मयात्र कर्तव्यमिति यन्निश्चितं वचः।