गृहीतो यः पूर्वं परिणयविधौ कङ्कणधऱः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः।
स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दळनिभः॥ ४४५॥
सीता—हद्धि, अय्यउत्तप्परिसमोहिदाए पमादो खु से संवुत्तो। (हा धिक्! आर्यपुत्रस्पर्शमोहितायाः प्रसादः खलु अस्याः संवृत्तः!)
रामः—सखि वासन्ति, आनन्दनिमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि। तत् त्वमपि धारय।
सीता—{ससम्भ्रमं हस्तमाक्षिप्यापसर्पति}।
रामः—हा धिक्, प्रमादः!॥ ४४६॥
करपल्लवस्स तस्यास्सहसैव जडात्मनः परिभ्रष्टः।