विदूषकः अपवार्यैन्द्रजालिकमाह—आ दासीएपुत्त इंदजालिअ! किं वा देवेहिं? जदि दे एदिणा परितुट्ठेण कज्जं ता साअरिअं से दंसेहि। (आः दास्याःपुत्र, ऐन्द्रजालिक! किं वा देवैः? यदि त एतेन परितुष्टेन कार्यं तत् सागरिकामस्य दर्शय।) तत एतद्वचनानन्तरमग्निसम्भ्रमादुत्थितः राजा, न वसुभूत्यादय आवृता वह्निना॥ ४६०॥
एतानि काव्यस्य विभूषणानि १प्रायश्चतुष्षष्टिरुदाहृतानि।
प्रबन्धशोभाकरणाय तज्ज्ञैस्सम्यक् प्रयोज्यानि यथारसानि॥ ४६१॥
उदाहृता नाटकनाटिकादावियं चतुष्षष्टिचतुष्टयी या।
रसाविरोधेन निबन्धनीया कथासु काव्येषु च सा महद्भिः॥ ४६२॥
भक्तीर्द्वादश ताः पृथक्पृथगिमास्सञ्चिन्त्य शब्दार्थयोः साहित्यस्य च शब्दशासनविदा कार्यः प्रबन्धे श्रमः।
कीर्त्तिर्यावदनश्वरी हि विदुषां रोदोगृहं गाहते ब्राह्मं लोकललामधाम तदमी तावत् किलाध्यासते॥ ४६३॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे प्रबन्धाङ्गचतुष्षष्टिचतुष्टयप्रकाशो नाम
नेदृशी स्पष्टताऽन्यत्र दृश्यते नाट्यलक्षणे।