असाधुकारिणं कञ्चित् पश्यतस्साधुमानिनः।
सोत्प्रासं वचनं यत् स्यात् तमुन्माथं प्रचक्षते॥ ४३६॥१
यथा रत्नावल्यां तृतीयेऽङ्के,
काञ्चनमाला—साहु रे अमच्च वसन्तअ साहु। (अदिसइदो तु) ए अमच्चज्जोअंधराअणो इमाए संधिविग्गहपीताए (चिंताए)। (साधु रे अमात्य वसन्तक साधु। अतिशयितस्त्वया अमात्य— यौगन्धरायणोऽनया सन्धिविग्रहचिन्तया।) इति।
यदग्राम्यं भवेद् वाक्यं गुरूणामधिकेष्वपि।
तथावसरमासाद्य परिहारस्स कथ्यते॥ ४३७॥२
रामः—अस्ति चेदानीमश्वमेधसहचारिणी हिरण्मयी सीताप्रतिकृतिः। तत्रापि तावद्वाष्पदग्धं चक्षुर्विनोदयामि।