चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृत्।
महाकाव्यं भवेत् कामप्रधानास्तु कथादयः॥ ४२९॥
वाक्यप्रबन्धानुगतोऽयमुक्तो मया समासेन रसावियोगः।
अथेह येऽर्था न विवेचिताः पृथग् विभज्य ते केचिदुदाह्रियन्ते॥ ४३०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे रसावियोगप्रकाशो नाम
रेवाप्रसादेन सनातनेन प्रकाश एकादश एष दिष्ट्या।
साहित्यतत्त्वं प्रणिधाय चित्ते व्यशोधि, धाराधिपतेः प्रकाशे॥