सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः॥ ४२८॥
कार्येषु विपरीतेषु यदि कश्चित् प्रवर्तते।
निवार्यते च कार्यज्ञैः प्रतिषेधः स कीर्तितः॥ ४२९॥
यथा वीरचरिते दशरथः (जनकमु्द्दिश्य)—(मवीच. ३.३०)
विरम नरपते! कथं द्विजेऽस्मिन्नविरतयज्ञवितीर्णगोसहस्त्रः।
तव पलितनिरन्तरः पृषत्कं स्पृशति पुराणधनुर्धरस्य बाहुः॥ ४३०॥
प्रयुक्तार्थविधानाय मोहाद् यत्र प्रवर्तते।