(४३. निर्भासनम्) (नाशा. १६.२६)
अनेकयुक्तिमद् वाक्यमनेकार्थप्रसाधकम्।
अनेकवाच्यसंयुक्तं ज्ञेयं निर्भासनं तु तत्॥ ४१४॥
अन्योन्यसम्भिन्नदृशां सखीनां तस्या अपि प्रागनुरागचिह्नम्।
कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च॥
कलहंसकः—(उपसृत्य) एदं च। (एतच्च) (चित्रफलकं दर्शयति।)