यथा रत्नावल्यां तृतीयेऽङ्के,
वासवदत्ता—कंचणमाळे, तं तहा चळणपडि(दमय्य) उत्तमवधीरअंतीए अदिणिठ्ठुरं एव्व मए किदं, इति। (काञ्चनमाले, तं तथा चरणपतितमार्यपुत्रं अवधीरयन्त्या अतिनिष्ठुरमेव मया कृतम्। इति।) (रत्ना. ३.१७–१८)
(४१. अनुवृत्तिः) (नाशा. १६.३४)
प्रश्रयेणार्थसंयुक्तं यत् परस्यानुवर्तनम्।
स्नेहाद् दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता॥ ४१०॥
यथा रत्नावल्यां तृतीयेऽङ्के
राजा—कथं दर्शनमपि भविष्यति?
विदूषकः—भो कहं ण भविस्सिदि जस्स रा(दे)ओहसितच्चुहत्थदि (विहप्पदि)
बुद्धिविहवो अमच्चो। (भोः कथं न भविष्यति यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽमात्यः।)