यथा रत्नावल्यां तृतीयेऽङ्के,
राजा— (अञ्जलिं बद्ध्वा) प्रिये वासवदत्ते, प्रसीद।
वासवदत्ता—अज्जउत्त, मा एव्वं भण। संकंता खु एदे अण्णहि अक्खरा(इ)। {आर्यपुत्र, (मा) एवं भण। संक्रान्तानि खलु एतानि अन्यत्र अक्षराणि}
विदूषकः— भोदि, महाणुभावा खु तुमं। ता खमीअदु एक्को अवराहो। (भवति, महानुभावा खलु त्वम्। तत् क्षम्यतां एकोऽपराधः।)
वासवदत्ता— पढमसंकेअस्स विग्घं करंतीए मए एव्व एअस्स अवरद्धं। {प्रथमसङ्केतस्य विघ्नं कुर्वन्त्या मयैवैतस्यापराद्धम्।} ॥ ३९६॥
कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः।
दोषा न परिकल्प्यन्ते तज्ज्ञेयं गुणकीर्तनम्॥ ३९७॥
यथा रत्नावल्यां द्वितीयेऽङ्के, राजा—(रत्ना. २.१५)