भवतु कठिनचेताः प्राणितुं नास्मि शक्तो न नु पुनरपहर्तुं बाणवर्षैस्तवासून्॥ ३८६॥
(ततः प्रविशति यथानिर्दिष्टो भीमः।)
भो भो राजन्यवीराः समरशिखिशिखाभुक्तशेषाः कृतं व— स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत्।
नाहं रक्षो न भूतो रिपुरुधिरजलह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि॥ ३८७॥
देवि पाण्डुस्नुषे, उत्तिष्ठोत्तिष्ठ।
द्रौपदी—कहं पि अज्ज वि ण संभावेमि चिदासमीवं।
(कथमपि अद्यापि न संभावयामि चितासमीपम्।)
युधिष्ठिरः—कः कोऽत्र भोः ! सनिषङ्गं धनुरुपनयत। कथं न कश्चित् परिजनः। भवतु। बाहुयुद्धसम्भावनया विहस्तमेनं गाढमालिङ्ग्य ज्वलनमभिपतामि। (इति परिकरं बध्नाति।)