यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम्।
पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिधीयते॥ ३८१॥
यथा रामचरिते हनुमान् सीतां दृष्ट्वा—(राच. १९.५१)
स्थानेऽवसीदसि रघूद्वह ! किं विधातर् अस्यास्त्वयेक्षितमलक्षणमङ्गकेषु ।
अद्यापि जीवसि दशानन ! हे हनूमन् ! केयं तवाभिमुखवर्तिरिपोः प्रतीक्षा॥ ३८२॥
दृष्टश्रुतादिभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम्॥ ३८३॥