हृष्टैः प्रसन्नवदनैर्यत्परस्यानुनुवर्तनम्।
क्रियते वाक्यचेष्टाभिस्तद् दाक्षिण्यमुदाहृतम्॥ ३७१॥
यथा रत्नावल्यां द्वितीयेऽङ्के,
वासवदत्ता—अय्यउत्त, मम पि किं एदं चित्तकम्म पेक्खन्तीए सीसवेअणा समुप्पण्णा। ता गमिस्सं अहं। {आर्य(पुत्र), ममापि किं एतत् चित्रकर्म प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना। तद्गमिष्याम्यहम्।}
राजा—(वासवदत्तां पटान्ते गृहीत्वा) प्रिये !
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे॥ ३७२॥